________________
२०६
श्रीमानुभूपति कुलार्णवशीतभानुस्त्रैलोक्य-लोक- हृदयाम्बुज - बोधभानुः । दुष्कर्म - मर्ममथनः शिवशर्म धर्मः, स्फूर्जत्तनुस्तनुमतां तनुतां नतानाम् ॥ १५ ॥
स्तुति तरंगिणी
श्री विश्वसेनतनयः पदपूतविश्वः, कुन्देन्दु- गौरगुणग्राहितविश्वविश्वः । श्रीशान्ति-रन्तरहितान्तकृतेऽप्रशान्तः (प्रशान्तः) संसारतान्विरचिरादचिरासुतोऽस्तु
॥१६॥
श्रीनन्दनः
कुशलनन्दनकृन्निरस्त-,
श्रीनन्दनः कुशलपङ्कज - पद्मबन्धुः ।
विश्वेश्वरः समनमनरनाथ कुन्थुः,
कुन्धुर्जिनः स वृजिनव्रतती विछनत्तु ॥१७॥
सद्दर्शनप्रमदकन्भिजदर्शनेन, श्रीमत्सुदर्शन सुतस्ततदर्शनश्रीः । श्रीमानरः बितनरप्रकरस्य भूत्यै,
सार्वप्रभुर्भवतु सप्तम सार्वभौमः
Jain Education International
श्री कुम्मसम्भवजनिं भववारिराशिश्री कुम्भसम्भवसमं समतासमेतम् । कल्याणवल्लिजलदं जितमोहमलं, मल्लिप्रभुं नमत रोचिरपास्तम लिम् ॥ १९॥
For Private & Personal Use Only
॥१८॥
www.jainelibrary.org