________________
संस्कृत विभोग-२
देवेन्द्रवृन्द-परिवन्दित-शान्तमुद्रः, नन्दात्मजस्त्रिजगदानन-गीतकीर्तिः श्रीशीतलः सरसशीतलवाग्विलासः, कुर्यात्सतां तनुमतां नमतां मतानि ॥१०॥ भव्याङ्गिनाममितकामित-कल्पवृक्षप्रत्यक्षलक्ष्यगुण-रजितदक्ष-लक्षः । श्रेयांसतीर्थपतिरधि-नमत्सकर्णः श्रेयांसि यच्छतु सुवर्ण-सवर्ण-वर्णः ॥११॥ अज्ञानसन्ततितमिस्रसहस्रपादः, सद्भुतभक्तिभरवासव-पूज्यपादः । .. श्री-वासुपूज्यभगवान् वसुपूज्यजन्मा, वाभास्ति नूतनगमस्ति-गमस्ति-शस्तः ॥१२॥ आनन्दमेदुर-पुरन्दर-वृन्दवन्द्य-, पादारविन्दयमलं विमलं जिनेन्द्रम् । विश्वम्भरावलय-शोभि-यशोभिरिद्धं, वन्दे सभक्तिरसमस्तसमस्तमारम् ॥१३॥ नम्रामरेश्वर-नरावलि-मौलि-मौलि-, मालाकलापकलिताघ्रि-युगोपहारम् । व्याहारनिर्मित-समग्रजनावबोध, संस्तौम्यनन्तभगवन्तमनन्तबोधम् - ॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org