________________
निर्नामकर्तृक श्री चतुर्विंशति-जिनस्तुतयः ।
(वसन्ततिलकाच्छन्दः) आनन्दसुन्दर-पुरन्दर-नम्रमौलि,मौलि-प्रभा-सलिल-धौतपदारविन्दः। श्री-नाभिवंशजलराशि-निशीथिनीशः, श्रेयः श्रियं प्रथयतु प्रथमो जिनेशः ॥१॥ गोक्षीर-हीरहरहार-विहार-हारि,कीर्तिप्रमोदित-जनो दितमोहपाशः । कुर्वन् कुकर्मविजयं विजयातनुजस्तन्यान्महोदयमहोदयसंपदं वः ॥२॥ स्फूर्जनिजोर्जितजितारि-जितारिभूपवंशान्तरिक्षतरणि तरणिं भवाब्धौ । रोषादिदोष-परिमोषपर-स्वभावं, श्री-सम्भवं विभव-सम्भवमानमामि ॥३॥ प्रहप्रभूतपुरुहूतशिरःप्रदेशकोटीरकोटितट-घट्टितपादपीठम् । वन्देऽहमिन्दु-करगौर-गुणै- रमन्दमानन्दकन्दमभिनन्दन-तीर्थनाथम् ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org