________________
संस्कृत विभाग
( आर्यागिति) मल्लिमबलोऽनलस्यातिप्रथित उच्चकैरयवान् । विदध हिंसोपचयं पुनातु हरिणाहतो भव्यान् ॥१९॥
(अनुष्टुप् ) कृतभूतनयादेश उच्चैरक्षोभयावहः । सौमित्रिनन्दतात् पद्मानन्दनो मुनिसुव्रतः ॥२०॥
(आर्या गिति) असमाननक्रम-करं समाश्रयं जलपतत्रिवर्गाणाम् । नमिनाथं सजनदत्तरङ्गमाऽऽनमत भुवनपतिम् ॥२१॥
(अनुष्टुप) श्रेयः संवरदस्य श्रीनेमे ! लीलां तनोतु वः । पिप्रती जगतीं गोभिर्यादवोल्लासवर्द्धनी ॥२२॥
(आर्यागिति) अमृतकरः पार्श्वजिनो हरिणाङ्कितविग्रहः ।। कलानिलयः नन्द्यात्तमालसत्तमरुचिरच्छापि-शैषधिभर्ती ॥२३॥
( अनुष्टुप् ) धत्ते योजनलक्षौच्चै-निं योऽगधुरंधरः ।। कल्याणगौत्रः, श्रीवीरः, सोऽस्तुसनन्दनः श्रिये ॥२४॥
(आर्यागिति) रोचनविषयग्रामा तमुद्रसहिताऽसमानगोपचिता । अवनीपारगतानां पुनातु वः पञ्चकल्याणी ॥२५॥ १. अमंदकीर्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org