________________
स्तुति तरंगिणी (आर्यागिति) कुर्याद्विमलः सभ्येशं मे भोगासक्ति सहेलया । हन्याद्धरिताऽऽलसमानरुचियः व्योमःपति-मतोषयत् ।।१३।।
( अनुष्टुप् ) 'मञ्जुलाऽङ्गलच्छायश्चन्द्रगौरः सुराहतः । जीयादनन्तः श्रीज्येष्ठो, भीमतालोऽपि लक्षितः ॥१४॥
(आर्यागिति) सदयो-ध्यान-गरीयानमोदयददीपयच्च भानुकुलम् । यो हि वैदेहिसत्कृत्स श्रीरामो जयति धर्मः ॥१५॥
(अनुष्टुप् ) नयज्ञपुरुषाऽऽधारो, वह नवसुधां पराम् । अहीनः कोऽपि पायाद्वः, श्री शान्तेविस्तरो गिराम् ॥१६॥
__ (आर्यागिति) रुचिताऽऽभ्रसद्धातृधवनक्तमाऽऽश्रितमशोकपुन्नागैः । विभ्राजिमृदुलताऽद्यं स्तुवे वनं पदयुगं कुन्थोः ॥१७॥
. ( अनुष्टुप् ) अवामनतरङ्गैको गभीरस्तिमिताजित: ।। श्रियोऽसमकरो वः स्तादरनाथो महोदधिः ॥१८॥
१. वर्याऽजन सुहृद्रप पातु वो धारयन् क्षमाम् । भूरि भोग विरोचिषुरनन्तो विष्णुना श्रित: ॥१४|| इति पाठान्तरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org