________________
स्तुतिचतुर्विशिका
( आर्यागिति) यं सततमक्षमालोप-शोभितं सेवते मरालीशः । कमलासनः स्वयंभूस्स, श्रीमान्नाभिभूर्जयति ॥१॥
(अनुष्टुप) अहिताऽपेननिष्णातः पुरुषोत्तमसंश्रितः । विनताऽऽनन्द नो विश्वविनेताऽवतु वोऽजितः ॥२॥
(आर्यागिति) श्रीमान् कैरवबन्धुरविलोचनो गारुडच्छविवपुर्वः । शम्भवजिनोऽस्त्वहीनस्थितिभाक तार्क्ष्यध्वजः प्रीत्यै ॥३॥
(अनुष्टुप) मुदभिनन्दनः स्ताद्वः सुभद्राऽऽभोगभाजनम् । 'सद्धर्मसंयुगाऽरक्तो भव-जैत्रः कपिध्वजः ॥४॥
(आर्यागिति) हर्षितकैः कविनिवहस्स्तुत्योदय ! जनयित! कृतान्तस्य । श्रीसुमते! जीयाश्चिरमिन ! त्वमुच्चै रुषां हन्तः ॥५॥
(अनुष्टुप् ) पद्मप्रभः सौमनसं धर्म विभ्रत्सदाऽऽशये । उमाविभूषितः पातु प्रद्युम्नः श्रीधराङ्गजः ॥६॥ १. निराकरण २. सदर्म संयुनक्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org