________________
२८५
संस्कृत विभाग-२ सुविधे! सुरराज-वंदिता, नमयद्यस्तव मस्तकं निजम् । सुविधे सुरराज वंदिता, स्वनुतौ विश्वमवापयन्नयम् ।।९।। प्रणनाम य इद्ध - तेजसे, भवते शीतलजातवेदसे । स कषायशमेन योग्यता, भवते शीतलजातवेदसे ॥१०॥ घनसारकुरंगनाभियुरु-घुसृणाऱ्या ! त्वयि जन्मिनि शिवे । घनसारकुरंगनाभियुक्, श्रीश्रेयांसो बभूव विष्णुमः ॥११॥ जिन ! तवपदेषु यन्मति-नवस्रप्रभवासुपूज्य ! । ते गदितेषु रमेत मे मता, नवमरप्रभ वासुपूज्य ते ॥१२॥ विमलेश ! कलेन्दुमालिनं, शिखिसर्विकलं कमप्य हो। विमलेश-कलेन्दु-मालिनं, क्ष तुलायां तव निरुजां गिराम् ॥१३॥ निगदंति यमन्यतीथिकाः, कमलेशं कमलासनं शिवम् । तमनंतजिनं नतोस्म्यहं, कमलेशं कमलासनं शिवम् ॥१४॥ शमनं कमनं तमाक्षयं-करमनस्सु जयंतमंजसा । शमनं कमनं तमाक्षयं, परमीप्सुः प्रभु-धर्ममाश्रये ॥१५॥ तव शान्तिजिनाधिसंसद, मृगपंचाननधन्विराशय: । अविरोधमिधासतेऽम्बरे, मृग-पंचानन-धन्धिराशयः ॥१६॥ भ्रमरागजरागगल्लयो, जिनकुन्थो मृतिजन्मनोश्च भीः । भ्रमरागजरागगल्लयोः, श्रुतिघातादिव यांति ते गिरा ॥१७॥ अरनाथमुपैति मेऽवतो, गुरुमन्दारसिताक्षहेलया । भवतः कुसुमैर्महंति यं, गुरुमन्दारसिताक्षहेलया ॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org