________________
महोपाध्यायहेम-हंसगणि-विरचिता
(आर्यागीत्यादि च्छन्दः) श्री-सिद्धाधिप-सिद्धशेखर-प्रथिताहाचलमौलिमौलाय । श्रीसिद्धाधिप! सिद्धशेखर-श्री नामेय ! नमोऽस्तु ते मम ॥१॥ अजितं यजयद्गुणस्तुती, वैकुण्ठः पशुभूतराडजः । ननु नाभवदर्थतोप्यभूत्, वैकुण्ठः पशुभूतराडजः ॥२॥ कमलोदर-कोमलावनी-दृशदृश्यौ तव संभवक्रमौ । कमलोदरकोमलावनी-पतिनम्यो नमश्च न नश्यति ॥३॥ तव गीषु सतर्कमीशमेत्य-भिरामाः सुमनोऽमिनन्दन । न कथं वन सक्ततामुपैत्य-भिरामा: सुमनोऽभिनन्दन ! ॥४॥ सुमतीश्वर-नंद-नन्दन-स्मरमाद्यन्मद-मैंदमथनः । सुमतीश्वर-नंदनंदनः पवमानः स्वशा दयाया ।।५।। न हि दैवतमस्ति किंचन श्रीपद्मप्रभदेवते परम् । स्वयि तन्मम मानसं शिव-श्रीपद्मप्रमदेवते परम् ॥६॥ बलितापघना घनोदके तिमिवत्नृत्यपराः सुरांगनाः । बलितापधना धनोदके-न सुपार्श्व ! त्वयि धैर्यभंगदाः ॥७॥ विरजीकरणे भुवः श्रिये, जिनचन्द्रप्रभवप्रभंजन! । मम मोहरिपोर्भवाशु रे, जिन चन्द्रप्रभवप्रभंजन ! ॥८॥
Jain Education International
al
For Private & Personal Use Only
www.jainelibrary.org