________________
૨૮૬
स्तुति तरंगिणी
।
जय कुंभनरेन्द्रसंभव !, प्रभु मल्ले ! शिवसौधमूर्द्धनि । जयकुं मनरेन्द्र संभव - स्मरदर्योपशमे सुखश्रियाम् ॥ १९ ॥ मतिरन्य-मते यति शती, सकलं केवलतेजसा मम । प्रणुनूपति सुव्रतं परं, सकलं केवल ते जसा मम ||२०|| नमये सुकताततायिने, कलिकालाय सदाभ्यमूयिने । नमयेऽसुकृताततायिने, निजमूर्द्धानमनन्यनामिनम् ॥२१॥ स्वयंमंगिन इंदिरासुखैः सहसा रैवत दैवताय ते । यदि नेमिजिनानमत्यसौ सहसा रैवतदैवतायते ||२२|| सभयानि भयानकान्यपि स्थानानि स्तुतवृत्तशालिनाम् । समया निभया न कान्यपि स्मृति-मात्रेण भवंति पार्श्व ! ते ॥ २३ ॥ उदयोऽजिगिर स्तदोकसि (तदो कसि) ध्वनिते दानव - देवतानकैः । जिनवीर ! निशम्य संयमा, ध्वनिते दानव-देवतानकैः ॥२४॥ यमवाप्य कृतार्थ्यते जगत्-सवितारंक- वितानमुच्चकैः । स जिनोऽवतु मादृशं तमः सविता-रंक वितान - मुच्चकैः ||२५| ( प्रशस्तिः )
"
श्री - सोमसुंदरगुगेः प्रणुताः प्रसादात् श्री - सोमसुंदर - यशस्ततयो जिनेन्द्राः । स्थाने समेऽथ विषमे विदितांहिवृत्तेः स्थाने समेऽथ विष मे हृदि मे वसन्तु ॥२६॥ कल्याणकोटीर-समान- तायते, स्तुतिस्त्रिलोकस्य जिनौघ ! येन ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org