________________
संस्कृत विभाग-२
भामंडल-प्रोज्ज्वल-कर्णकुंडल-, त्रिरूप-मित्रेण यदंगसेविना । छत्रत्रयी त्रैधतनुः समागम-, त्संगंतुमिन्दुस्तमुपास्महे जिनम् ॥२६॥ एवं चतुर्विंशतिराप्त-शेखरास्ते कौमुदामोदन-सोमसुदराः । प्रसद्य देयासुरसीम-शर्म मे, लाभाहतो यन्मुनिसुन्दरं पदम् ॥२७॥ विधाय यस्यास्तलपादसंगति, पद्मान्यगुः कांचनकामनीयकम् । येनाधिरोहंति शिरः सुनाकिना-, मद्यापि सा नंदतु राजिम्हताम् ॥२८॥ देदीप्यमाने किल यत्र भाविना, युक्तं प्रकाशो भवतीति यत्पुनः । दुर्वा दिनां जाड्यमुदेति तनवं, तं नौमि जैनागमपावकं मुदा ॥२९॥ प्रज्ञावनं सेक्तुमिव प्रणेमुषां, पाणी घटीयंत्रमिवाक्षमालिकाम् । दधाति या चिद्द-सरस्वती च नः, सा लातु हंसीललितं सरस्वती ॥३०॥
(गायकवाड भंडार वडोदरा)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org