________________
स्तुति तरंगिणी महोपाध्याय-हेमहंसगणि-विरचिता
(वसंततिलका) श्रीपुंडरीकशतपत्र-सहस्रपत्रशत्रंजयाद्यभिध-सिद्धगिरीन्द्र-मौले! । श्रीपुंडरीक-शतपत्र-सहस्रपत्रपूज्याय ते मम नमोऽस्तु युगादिदेव! ॥१॥ स्वामिन्मनो-मधुकरस्तव गीः प्रसने, स्तम्बरमांक ! विजयाजितशत्र-जात!। स्तुत्यास्पदीकृत ! दधातु ममाति दीव्यन् , स्तम्बेरमांक-विजयाजितशत्रुजात ! ॥२॥ एतानि मे रुचिर-संभव-संभवानि, नोत्पादयंति कथमायसुखैः सुखानि । एतानि मे रुचिर-संभव-संभवानि, दिष्टया ततोऽहमपि ते सुख-संविभागी ॥३॥ तुच्छान्यपीद्ध-धिषणानभिनंदनेश ! वित्तानि मानसमुदाय-दिशं नयंति । ध्यायंत एव तव तेजयसुखानि सिद्धवित्तानि मानसमुदाय-दिशं नयति ॥४॥ उन्मत्तवारण-सुखासनवाहिनीमिरागत्य ये तव पदौ सुमतेऽयंति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org