________________
संस्कृत विभाग-२
२६७ तरिक क्रुधा संवरवैरितां दधा-, त्यसौ स सौख्याय जितोऽभिनन्दनः ॥५॥ साम्राज्यराज्येश्वरसेविनोऽवधीन्-, मुधा स्मरादीन् भुवि चैकको भ्रमन् (त् )। क्रमादकर्मा वपुषोग्यथ च्युत-, स्तथाप्यहो यः सुमतिनतोऽस्मि तम् ॥६॥ स किं सुतो नानुहरेत य: पितु-, गुणान् सुसीमाधरतामितीव यः । दधौ सुसीमाधरसंभवः प्रभुः, पद्मप्रभः सद्म स मे हृदि क्रियात् ॥७॥ कैवल्य-लक्ष्मीकरपीडनोत्सवे, कास्तूरिकः स्थासक एष जातवान् । फणानिभाद्यस्य भजाम उच्चके -, स्तं श्रीसुपार्श्व विधिपारिपाश्चिकाः ॥८॥ संवेग (सर्वांग) मंत: परिपूर्य कि बहिः, समुल्लसन् शांतरस: प्रसृत्वरः । स्ववर्ण-सावण्यमुपानयद्वपु-, र्यदीयमीशं तमहं नतोऽष्टमम् ॥९॥ यदानने पार्वणशर्वरीश्वर-, भ्रमादुपागच्छदतुच्छमुत्सुका ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org