________________
संस्कृत विभाग-२
॥१॥
॥२।।
संयोग-कल्याणक-स्तुतयः
(उपजातिः) विनम्र - देवाधिभुवः किरीट-, संक्रांतपादाम्बुरुहच्छलेन । आज्ञा शिरस्याह बहेद् ययोस्तो, पद्मादि नेमी कुरुतां हितं वः द्वात्रिंशदत्यद्भुत-लक्षणश्री-, विराजमानांगतया ब्रुवाणम् । नूनं जिनेभ्यो जगदुत्तमत्व-, मरं नमि मल्लिमपि प्रणौमि निरस्त-दुष्टाष्ट-महारि-कर्मे-, त्यवाप्त-शक्रेन्द्र-महासपर्यः । ध्रुवं समाया भवताद्विभूत्यै, श्रीवासुपूज्यः श्यभिनंदनश्च पीतांमभासा मणिशालभित्ति-, लिप्ता दधौ स्वर्णमयीत्वमंतः । समासु यस्या प्रतिमप्रभस्य, स धर्मनाथो विमलश्च वोऽध्यात् जज्वाल नैवांगजवाडवाग्निरन्तर्ययोवीरगमीरवृत्योः ।
॥३॥
॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org