________________
स्तुति तरंगिणी (शार्दूलविक्रीडित) तुर्याया दिवसे च्युतिः सुरभवात् , श्रीमधुगादिप्रभोः, सप्तम्यां विमले, सुरेन्द्रमहिते कैवल्यकल्याणकम् विश्वाय नवमीदिने नमिजिने चारित्रलक्ष्मीः प्रभावाषाढे बहुले नितांतसुभगे श्रीजैनजन्मादिभिः ॥२०॥
(शार्दूलविक्रीडित) षष्ठयां वीरजिनेशितुश्च्यवन-सत्कल्याणकं स्वर्भवा-, दष्टम्या शिवशर्म सुन्दरतमं श्रीनेमिनाथे जिने । भूतेष्टादिवसे सुनिर्वृतिपदं श्रीवासुपूज्य-प्रभो-, राषाढस्य लसचछशाधवले पक्षे द्वितीयेऽनघे ॥२१॥
(स्रग्धरा) मुक्तिः श्रेयांसनाथे सुरनतचरणे श्रीतृतीयादिनेऽभूत् , सप्तम्यां श्रीअनन्ते च्युतिरमरगतः श्रावणे कृष्णपक्षे । अष्टम्यां श्रीनमीशे हतसकलभये जन्म-कल्याणकाप्ति, देवश्रीकुन्थुनाथे च्यवनमुरुतमात्कल्पतः श्रीनवम्याम् ॥२२॥
(शार्दूलविक्रीडित) पक्षे श्रावणकेऽमले च सुमतेः स्वस्तिद्वितीयादिने, पञ्चम्यां विभुनेमिनायकजनिः षष्ठयां तु दीक्षाऽस्य हि । अष्टम्यां दिवसे च पार्श्व-जिनपे मोक्षकलाभः प्रमो, राकायां मुनिसुव्रतो गतदरः सत्स्वर्ग-लोकाच्च्युतः ॥२३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org