________________
२५९
संस्कृत विभाग-२
(शार्दूलविक्रीडित) मोक्षं श्री नमिनायकः समगमत्तिथ्यां दशम्यां त्रयो-, दश्यां श्रीमदनन्तनामकविभुर्जन्मैककल्याणकम् । भूतेष्टादिवसे हनन्तजिनपो ज्ञानं व्रतं प्रोल्लसत् , श्रीकुन्थोननं च मेचकतमे वैशाखपक्षे प्रभोः (युग्मं) ॥१६॥
(शार्दूलविक्रीडित ) तुर्यायामभिनन्दने च्युतिरभूद्, वैशाखपक्षेऽमले, अष्टम्यां तु शिवं च धर्मजिनपेऽभूत्सप्तमी संच्युतिः, जन्मास्यां सुमतेर्दिनेऽस्य नवमे दीक्षा, दशम्यां च चिद्, वीरेऽथो विमलेऽर्ककेऽजित विमावेकाधिकेऽहिन च्युतिः ॥१७॥
(शार्दूलविक्रीडित्त) श्रेयांसे च्यवनं तु शुक्रबहुले पक्षे सुषष्ठया दिने-. ऽष्टम्यां श्रीमुनिसुव्रते जनिरभूत् श्रीमनवम्यां तिथौ । देवे श्रीमुनिसुव्रते शिवगतिः श्रीशान्तिनाथे त्रयो-, दश्यां जन्म शिवे चतुर्दशदिने तस्यैव दीक्षोत्सवः ॥१८॥
(स्रग्धरा ) पञ्चम्यां धर्मनाथे शिवगनिरजनि ज्येष्ठपक्षेऽतिशुक्ले, श्रीमद् श्रीवासुपूज्ये च्यवन मिह लसत्स्वर्गलोकानवम्याम् । द्वादश्यां श्रीसुपार्श्वे सुरनरविनते जन्म चासीत्त्रयो युग-, दश्यां चारित्रलक्ष्मीः सकलभयहा श्रीसुपाख्यिनाथे ।।१९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org