________________
स्तुति तरंगिणी (शार्दूलविक्रीडित) शुक्ले फाल्गुनके च्युतो हरजिन: श्रीमद्वितीयादिने, तुर्याया दिवसे च्युतिः समभवत् श्रीमल्लि-तीर्थाधिपे। अष्टम्या दिवसेऽथ संभव जिनो वृन्दारकेभ्यश्च्युतो, द्वादश्यां मुनिसुव्रते व्रतमभून्मोक्षस्तु मल्लिप्रभोः ॥१२॥
(शार्दूलविक्रीडित) . पार्श्वे चिच्यवने च चैत्रबहुले पक्षे चतुर्थ्या दिने, पञ्चम्यां च्यवनं सुपर्वभवतश्चन्द्रप्रभाख्यप्रभोः । अष्टम्यामृषभस्य जन्मचरणे, ते तीर्थयाः सर्वदा, श्रीसंघस्य चतुर्विधस्य मनसोऽभीष्ट श्रियं तन्वताम् ॥१३॥
(शार्दूलविक्रीडित) कुन्थुनिमवाप चैत्रविमले पक्षे तृतीयादिने, पञ्चम्यामजितश्च शंभव जिनोऽनंतश्च निःश्रेयसम् । निर्वाणं नवमीदिनेऽथ सुमतेरेकादशाहेऽस्य चित् , सेकाऽऽजनि वीरपो(सिद्धजो)ऽन्तिमतिथी प्रमप्रभेचिन्महः॥१४॥
(स्रग्धरा) कृष्णे वैशाखपक्षे प्रतिपदि दिवसे कुन्थुनाथरय मोक्षो, मुक्ति प्रापद् द्वितीयाभिधतिथि-दिवसे शीतलाख्यो जिनेन्दुः । पञ्चम्यां कुन्थुनाथो व्रतविधिमकरोत् सिद्धिसद्ध्यानलीन:, षष्ठयां श्रीशीतलाख्ये च्यवनममरतो जन्तुदत्तप्रमोदम् ॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org