________________
२५७
संस्कृत विभाग-२
__ ( शार्दूलविकी डितम् ) माघे शुक्लतिथेऽमिनंदनजिने जन्म द्वितीयादिने-, ऽस्मिंश्चिद्वादशके जिने च विमले धर्म तृतीयादिने । जन्म श्रीविमले जिने ब्रतमभूत्तुर्याभिधे वासरे, अष्टम्यां श्रीअजितस्य जन्म सकलत्रैलोक्यदत्तोत्सवम् ॥८॥
(शार्दूलविक्रीडित ) प्रस्फूर्जअवमीदिने व्रतमभूनाथेऽजिते श्रीपदे, माघस्योज्ज्वलपक्षके प्रतिदिनं संवर्द्धमानधुतौ । द्वादश्यामभिनन्दने व्रतविधि,-धर्मस्य दीक्षा त्रयो-, दश्यां भक्तसुरासुरेश्वरगणश्रीसंघक्लप्तोत्सवा (युग्म) ॥९॥
(स्रग्धरा) षष्ठयां ज्ञानं सुपार्थाभिधजिनवृषभ फाल्गुने कृष्णपक्षे, सप्तम्यां श्रीसुपार्श्व शिवमतिरजनि, श्रीश चन्द्रप्रमे चित् । सप्तम्यां श्रीनवम्यां सुविधिमुनिगुरोःप्रच्युति: स्वर्गलोका,देकादश्या दिने श्रीऋषभजिनविभुर्ज्ञानविज्ञातविश्वः ॥१०॥
(शार्दूलविक्रीडित ) द्वादश्यां मुनिसुव्रतो चिदिनयुग श्रेयांस जन्म त्रयो-, दश्यां तस्य जिनेश्वरस्य चरणं विश्वोरुदत्ताभयम् । भूतेष्टादिवसे तु जन्मविलसत् श्रीवासुपूज्ये जिने-, अमावास्यादिवसे व्रतं समजनि श्रीवासुपूज्यप्रभोः (युग्मं)॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org