________________
२५६
स्तुति तरंगिणी
(स्रग्धरा) शुक्ले श्री मार्गशीर्षे अरभुवनपतौ जन्ममोक्षौ दशम्यामेकादश्यां व्रतं श्री अरजिनतिलके मल्लितीर्थाधिनाथे। जन्म ज्ञानं व्रतं श्रीनमिचिदुरुतमा, शंभवे जन्म चासीत् , भूतेष्टायां तु राकावरतिथिदिवसे शम्भवस्यैव दीक्षा ॥४॥
(शार्दूलविक्रिडीत ) कृष्णे पौषे दशम्या जनिरजनि तथा पार्श्वनाथस्य दीक्षा, चैकादश्यां हि चन्द्रप्रभजिनपजनिदिशीवासरेऽस्मिन् । आसीत्रैलोक्यपूज्या त्रययुतदशमीवासरेऽस्यैव दीक्षा, भूतेष्टाया दिने चित्रिभुवन विदिते शीतलाख्ये जिनेन्द्रे ॥५॥
(स्रग्धरा) पोषे शुक्ले विशुद्धं विमलजिनविभोनिमासीद्धि षष्ठयां, चित् श्रीशान्तेनवम्यामजितमुनिपतेनिमेकादशाहे । भूतेष्टाया दिने श्रीलसदभिसहितो नंदनो ज्ञानमापत् , श्रीधर्मे पौर्णमास्यां सुरनरमहिते केवलज्ञानलामः ॥६॥
(स्रग्धरा) षष्ठयां पद्मप्रभेऽभूच्यवनममरतो माघपक्षे सु-कृष्णे, द्वादश्यां शीतलाख्ये जिनवरवृषभे जन्मदीक्षे सुगर्थे । श्रीमन्नामेयदेवः प्रथमजिनपतिमुक्तिगामी त्रयोयुग, दश्यां श्रेयांसनाथोऽन्तिमतिथिदिवसे ज्ञानमाशिश्रियद्यः । ७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org