________________
संस्कृत विभाग-२ ते संसारांबुराशिप्रवहणकरणिं तुष्ट-दृष्टिं क्षिपन्तु, मय्यानंदैरमन्दैः स-कमलविजय-प्राप्तपुण्यप्रभावाः ।।२८॥ (पू. गणि हेमवि, शिष्य कमलवि. म. कृतिरसौ)
(पू. जंबूस्व. ज्ञानभंडार-डभोई )
मासक्रमेण कल्याणकगर्भित-स्तुतयः
(स्रग्धरा) पञ्चम्यां शंभवे केवलमजनि लसत्कार्तिक कृष्णपक्षे, द्वादश्यां नेमिपद्मप्रभजिनवरयोः प्रच्युतिर्जन्म चास्ताम् । विश्वाधीशस्य पद्मप्रभसुजिनपतेः संयमश्रीस्त्रयोयुग, दश्यां दर्शाख्यतिथ्यां शिवसुखमतुलं वर्द्धमानस्य जज्ञे ॥१॥
... ( शार्दूलविक्रिडीतम् ) ज्ञानं श्रीसुविधिप्रभोः समभवत् श्रीमत्ततीयादिने, द्वादश्यामरनामके जिनवरे ज्ञानं समस्तार्थगम् । चश्चत्कार्तिक शुक्लपक्षसमये श्लाध्यं गणैरामरै-, स्तज्ज्ञानं खलु केवलं प्रकुरुतां सौख्यान्यसंख्यानि वः ॥२॥
(स्रग्धरा) कृष्णे श्री मार्गशीर्षे सुविधिजिनजनिः पञ्चमीवासरेऽभूत् , षष्ठी-घने च दीक्षा सुविधियतिपते-वीर-दीक्षा दशम्याम् । एकादश्यां च पद्मप्रभपुरुषवरे मुक्तिकल्याणकं श्रीसंघस्यैतानि दधुः परमतमरमां जैनकल्याणकानि ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org