________________
२५४
स्तुति तरंगिणी
यमनिशं करुणा-तरुणी वृना, घनदमं नदमंभ इवाश्रयत् ॥२३॥ चरमतीर्थकरं करुणाकरं, करणभाजितकांचनमाश्रये । सुरगणेन नुतः प्रणयेन यः, सहरिणा हरिणाधिपलाञ्छन: ॥२४॥ सकललोकविलोकनलालसा-, कलित केवलकेवललोचनाः । वृषभमुख्य जिना जनयंत्विम, शिवरमावरमा-शुभगुञ्जितम्
॥२५॥ अजनि या युवतीव जगन्मन:-, सुखकरी वरवर्णपद स्थितिः । सुखसमागतिमागमपद्धति, जिनमतां नमतांजलिमौलयः ॥२६॥ अनघसंघमविघ्नघनं घनं, घटयतु श्रुतवाक श्रुतदेवता । श्रवणशर्म-यदीय-गुणान् जगुः,
सुरवशा स्वशासित-कोकिला: ॥२७॥ इत्थं स्वर्नाथसाथैः कृतमुकुटनटीकोटिसंघृष्टपादा, सर्वे देवाधिदेवाः सुगमयमकैः श्राव्यकाव्यैः स्तुता ये।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org