________________
संस्कृत विभाग-२
वजमहाविभवः श्रयति स्मयं, हिमकरो मारो दमनं यथा ॥८॥ मकरकेतुरुपैति यदीयहृद्-, वरगृहे रति-खंजन-हग जिनः । द्विरसनश्रयणाद्भवतो द्रुतं, किमु न तेन नतेन पलायितम् ॥९॥ भजति यः खलु शीतल ! शीतल-, धुतिकरप्रकरैक-चकोरताम् । किमु जिगाय स दुर्विषद्विर्षा, न समरं समरं जिन सज्जनः ॥१०॥ मुदि तदीयवचांसि मनांसि नः, प्रगुणयन्तु घना इव मेदिनीम् । नमति विष्णुसुतं यमिलाखिला, घनरवं नरवन्दितपत्कजम् ॥११॥ निखिल-दलिम-विलोल-विलोचना-, चलविलोवनकैरवचन्द्रमाः । जिनपतिर्भवतां भवताभृशं, सविजया विजया यमजीजनत् ॥१२॥ अलिकपट्टतटे मुकुटी(ली)कृतं, करयुग कलयन् कलयाम्यहम् ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org