________________
स्तुति तरंगिणी चिररुचिररुचस्ते बर्द्धमानाऽक्षरश्री, दयित! दयितभव्यश्रेयसः शासनस्य । परम परमतश्रीजैत्रभक्तः सदास्या--, मुदयमुदयपात्रं यल्लमे शर्म नित्यम् ॥२४॥ सुकृति-सुकृतिनुत्यं सार्व! सीमंध त्वां, महति महति सौख्ये य: शिवे वासमिच्छन् । सहित सहितलक्ष्मीराजिमत्राप्यवाप्या, मितसमित सदचे द्राग लभेतार्थितं तम् ॥२५।।
(पाठान्तरं) सुकृति सुकृतिनुत्यं नाथ ! वैदेहि-भूमा-, विह च विहरमाणं सार्व! सीमंधर ! त्वाम् । महति महति सौख्ये य: पदे वासमिच्छन् , सहित सहितकर्मा द्राग लभेतार्थितं तं ॥२६॥
(साधारण जिन) सदति सदतिशीति श्रीमहिम्ना त्रिलोक्या, महत-महत-तीयः प्राणभाजां प्रदत्ते । समत समतयापि श्रीजिनत्वस्य भक्तो, जयतु जयतुरापाट कर्मदैत्य-व्रजस्य ॥२७॥ निजजनिजजयोत्थानंद-सौख्ये त्रिलोक्यां, महदमहदनंतं देहि मे ब्रह्मशम ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org