________________
२२४
( रथोद्धता ) भाद्रमास्य सितसप्तमी - दिनं, स्यान कस्य ननु संमदास्पदम् । यत्र षोडशजिनो दिवच्युतं, मोक्षमष्टमजिनोऽप्यवापतुः ॥ ९५ ॥
स्तुति तरंगिणी
( भत्ताः )
भाद्राष्टभ्यां बहुल- गतायां, स्वर्गाद्भूमौ समवततार | यः स श्रीमान् जयति सुपार्श्वः, पृथ्वी- सूनुः कनकनिभांगः ॥ ९६ ॥
( रुक् भवति )
शुक्ल-नवम्यां भाद्रपदस्या, गाधभवान्धेः पारमगाद्यः । भानुसमानं विश्वविलोके,
श्री - सुविधि तं ध्यायत धन्याः ।। ९७ ।।
( उपजाति )
अमाऽपि सूद्योतमयी कथं न, तिथिः पवित्राश्विनमास - सत्का | यत्रोदगामिनि केवलार्क:, समग्रकर्मावरणा - मुक्तः ।। ९८ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org