________________
संस्कृत विभाग-२
गुणमणिधरणे त्वं दुःखदैत्यप्रणाशे, जिनगिरिरतिभाजः श्रीमहायक्षकामम् ॥४॥
श्री--शम्भवजिन-स्तुतिः नतजनमतिभातिः शम्भव श्रीजिनन्द्रो, भवदकनिधिकल्पो मालताचारिदाता । जननमृति - तरंग - स्तोम-दुल्लंध्यमध्यभवदकनिधिकल्पो मालताचारिदाता ॥१॥ जय जिननिवह त्वं देहभृहत्तभूयो, विभव-भुवन-राज्या मोदितः पङ्कजानाम् । असुखसमुदयानां नाशकः पापतापे, विभव भुवनराज्यामोदितः पङ्कजानाम् ॥२॥ श्रित सुकृत हितालीकलपताराविराजन्, नयनयमधरो दुष्कर्म-जैत्रः कृतान्तः । भवनिवहनिदानं संहर स्वंगिनां सन् , नयनयमधगे दुष्कर्मजैत्रः कृतान्तः ॥३॥ असुखमरविसर्पदावनिर्वापराजद्, घनसमदुरितारिः सद्गुणाली विताना । भवतु भुवनमध्यस्थायि भव्याङ्गिभूत्यै, घनसमदुरितारिः सद्गुणाली विताना ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org