________________
संस्कृत विभाग-२ सद्वर्ण्य-लावण्य-वरेण्य-देहं,
सौभाग्यभाग्याभ्युदयैकगेहम् । श्री-पारिजातोत्तम-पूरितेहं, मुदाऽचलनातरमाश्रयेऽहम् ॥९॥ "दीनार्थि-साक्षीकृतनामधेयं,
श्रीदत्तवंशाद्भुतभागधेयम् । चातुर्य-गाम्भीर्य-गुणैरहार्य,
मेतार्य-सूरिं सत्कृतताङ्गिकार्यम् ॥१०॥ शिष्टोपदिष्टाष्टमसर्वभद्रकं,
सानन्दता-सन्नत--सर्वभद्रकम् । विदग्धता-सम्मुदिताति--भद्रकं,
सदातिभद्रं भजताति-भद्रकम् ॥११॥ गेहे चरित्रेऽपि च सूत्रकण्ठाः, श्री द्वादशाङ्गी रचना-स्वकण्ठाः । चतुर्दशा-पूर्व-सुपूर्वपूर्णा, जीयासुरेकादश ते सुवर्णाः ॥१२॥ वपुः-पवित्री-करणकताना, श्री जैनगीर्विश्वलसद्विताना । श्री गौतमादि-प्रवर-प्रसन्ना, गङ्गापगेवाऽस्तु शिवप्रपनो ॥१३॥ वैमानिका व्यन्तरकिन्नरेन्द्राः, सुरासुरेन्द्राः किल पनगेन्द्राः। सुदृष्टिदेवाः कृतसार्वसेवाः,
सन्तु श्रिये सत्वकृतां सुदेवाः ॥१४॥
(सागरगच्छ पाटण, नेमिसू. खंभात) १. श्री पारिजातोस्तुम २. दानाथि ३. जनिताङ्ग ४. प्रयत्ना ५. प्रयत्ना ६. देवाः ७ सतुष्टये सार्वभृतामुदेवाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org