________________
१६८
स्तुति तरंगिणी श्री वीरदत्तं त्रिपदी-निधान, सुरासुरैः संश्रितसन्निधानम् । संस्तुत्य-सत्यप्रभवानुभूति, सेवे मुनि सम्प्रति वायुभूतिम् ॥३॥ 'द्विजान्वयांभोधिविशुद्धचन्द्र,
सत्यं विनिक्षिप्त-सनिद्रतन्द्रम् । व्यक्तीकृताव्यक्त-सुयुक्ति सूत्रं, व्यक्तं श्रये श्रीधनमित्रपुत्रम् ।।४ श्रीभदिलाकुक्षिदरीहरीशं, मीनध्वज-ध्वंसन-सगिरीशम् । व्याख्यात-विख्यात-दयाख्य-धर्म,
स्तुवे सुधर्माणमनन्त-धर्मम् ।।५।। धनाधिपश्रीधनदेववंशे, मुक्तोपमां यः प्रदरीधरीति । श्री-मण्डितः सद्गुण-मण्डित: स्व
निर्वाण-सौख्यं च चरीकरीति ॥६॥ सा मौर्यजाया विजया सुधन्या,
यया सुतो यो जनितो जनन्या । तं मौर्यपुत्रं त्रिपदी-सुपात्रं,
स्तवीमि चामीकर-चारुगात्रम् ।।७।। श्रीदेवभूदेव-सुधन्यनन्दनं,
देवी-जयन्ती-सुमन:-सुनन्दनम् । भूमीन्द्रभोगीन्द्र-गणैरकम्पितं,
श्री-वीरशिष्यं प्रणमाम्यकम्पितम् ॥८॥
१. गुरुम् २. निजान्धयां ३. विनिद्रं पूसनिद्रतन्द्रम् ४. पमाव्याः ५ कवयाम्यकम्पितम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org