________________
संस्कृत विभाग-२
(उपजातिः) गर्भावतारे जनुषि व्रते च, श्रीकेवले सिद्धि -समागमे च । कल्याणके भारतवर्षकस्थं, तं तीर्थपं भावमरेण नौमि ॥॥ नामाहतः श्रीऋषभेशमुख्यान् , द्रव्याहतो भूतभविष्य-दीशान् । सीमन्धराद्यानपि भावदेवान् , श्री स्थापनाहत्प्रतिमा नमामि ॥२॥ उत्कालिकं कालकमङ्गरूप, श्रीदृष्टिवादाङ्गमुरुस्वरूपम् । इत्थं श्रुतज्ञानमनेकमेदं, ध्यायामि नित्यं भवभीतिमेदम् ॥३॥ प्रचण्डपश्चाननचारुयाना, पदे पदे कल्पलताप्रधाना । श्रीअम्बिका मातृपदं दधाना, प्रीणाति नेत्रे मम नंदनांका ॥४॥
(आ. क. ल. ज्ञानमंदिर, दादर-मुंबई)
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org