________________
१०६
स्तुति तरंगिणी
घृतूनां प्रसूनादिभिः इन्द्रियार्थानामनुकूलत्वं द्रुमानां नर्ति द्रव्यतो भावतश्चापिते सन्तु सौख्यश्रिये तीर्थपाः ॥२॥ समवसरणमण्डले कोटिकोटिप्रमाणैस्सदा पादपीठे लुठभिः सुपर्ववजैरा जिते चामरोद्भासिते प्राज्यशोभे वरस्फाटिकस्वच्छसिंहासने पविश्यासुमत्तच्च - सम्पत्तये धर्म आदिष्टआप्तैर्वरज्ञान - रत्नगिरा,
संस्तुतोल्लेखयोच्चैः स्वरोदारया,
ग्राम्यतात्यक्तया, मेघगम्भीग्या, सप्रतिच्छन्दया, दक्षिणालापया समुदित बहुराजया, स्फारबद्धार्थयां, त्यक्तपूर्वापरास्पर्शिवाक्यार्थया, स्वीयसिद्धान्त - साकल्य सिद्धार्थया, वक्तृशिष्टत्वसार्थीकृतश्लाघया, संशयायुक्तया, न्यक्कृतानेकदोषोरुसंसर्गया चित्तसंगृह्ययाऽन्योन्य- वाक्यादिसाकाङ्क्षया, संसदुल्ला सिसंदर्भचित्तसंगृह्ययाऽन्योन्य-वाक्यादिसाकाङ्क्षया, या, वाच्यवस्तुस्वरूपानुसारिश्रियाऽत्यन्त-संबद्ध-सत्संप्रसाराच्छया परिहृत- परकीय - निन्दात्म कीर्तिप्रथा - सङ्गयोद्देश्यवस्तुप्रसङ्गी-भवद् - व्याख्यया, स्नैग्ध्य- माधुर्य-सङ्गर्भया, प्रोक्तसाद्गुण्यतः प्राप्तसुश्लाघया, चान्यमर्माप्रकासिप्रवृत्याभिधेयार्थया, तुच्छराहित्यया, व्यक्तधर्मार्थ संबद्धया, कारका देविपर्यासनिर्मुक्तया, भ्रान्ति सन्त्यक्तसद्वाक्योत्पादिता च्छिन्न कौतूहलत्रात सम्यश्रिय विशद विषयमद्भुतत्वास्पदीभूतया, चाबिलम्ब प्रशस्यार्थया, नैकवस्तूल्लसवर्णनोक्तार्थयाऽऽरोपितोद्भूत- वैशिष्ट्यया, साहसोपेतया, वर्णवाक्यादि भेद--प्रतिष्ठाभृता, वक्ष्यमाणार्थ - निर्णीतपर्यन्तया, प्राणिनां खेदविच्छेद संपर्कया, द्वादशाङ्गी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org