________________
॥१॥
यका ईतयो
प्रभावे प्र
नलवर्द्धमान
संस्कृत विभाग-२
१०५ नयन्तं क्षयं, तत्क्षणावेशं यन्महिम्नां प्रभावेण विश्वकविस्तारिणा ह्योषधिनेव कल्याणमालाभृता प्रबलशलभमूषकाः शस्यसम्पल्लनाडूयका ईतयो नोद्भवन्त्येव विश्वंभरायां प्रभूणां प्रभावे प्रसत्यवश्यं प्रणश्यन्ति लोभानिवर्द्धमानस्वभावा अपि स्फार-रामाश्वरत्नाम्बरोत्तंस-- ताडंक-केयूर--हारार्द्धहारोमिका-किङ्किणी नू पुरोधानसोमोद्भवा वैरधूमध्वजा यद्विहाराम्बुना शान्तिभावं गताः, नियमतोऽ-- तिवृष्टयः कष्टमुत्पादितुं नैव शक्ताः समन्तादनावृष्टयोऽ-- वग्रहस्संगृहीताः, क्षिनौ मास्यश्चाप्यसातं न कर्तु मना-- गप्यहो सार्वमाहात्म्यतः स्वीय चक्रोद्भवा वाऽन्य-चक्रो
द्भवा भीतयोऽनीतयः पार्थिवैर्वार्यमाणा इव नोत्सहन्ते प्रमापूरदूरीभवद्-ध्वांते जाते जगत्स्वामिपृष्टौ हि भामण्डले भ्राजमाने सति, अभिनवरुचिराजितं रत्ननिर्मापितं धर्म-- चक्रं स्फुरत्पञ्चवर्णा प्रसूनाभिवृष्टिं तथा भव्यनव्योल्ल-- सद्वर्ण-सौवर्ण-पद्मानि सार्वक्रमाम्भोज--विन्यास--भूमौ विकुर्वति देवाश्चतूरूपतां चापि दानादिभेदप्रकाशार्थमि - न्द्रध्वज ब्योम-संस्पर्शिनं, स्वर्ण-माणिक्य-रूपात्मिका चारु-वप्रत्रयीं, कान्ति-संशोभितां,, सकल-भुवन-विस्तरं दुन्दुभिध्वान- मानन्दसंसूचकं, कंटकानामधोषकत्रता चानुकूल्यं समीरे, कश्मश्रुलोम्नो नखानां च तद्रूपता, पक्षिणां दक्षिणत्वेन सश्चारितां, सौष्ठवं स्पष्टमानन्द-सम्पादकत्वं, वसन्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org