________________
स्तुति तरंगिणी (१४) श्री-पञ्चासरपाश्व-स्तुतिः सुखसमुदयसाधकं विश्वविश्वेश्वरं पार्श्वपञ्चासरं पत्तनाधीश्वरं, संस्तुवे सादरादश्वसेन--क्षमाधीश-वंशावतंसं, सहस्राक्ष-- शीतांशु-भास्वनराधीश-नागेन्द्र - विद्याधराधीश-सन्दोहसंसेवितं, दत्तचितेप्सितं, प्राप्तपूर्णद्युतिद्योतितार्थ समर्थ सदा सुप्रसादं भवाम्भोधिसेतुं शिवश्रीविलासोधतं तीर्थपं. विगदममल-मद्भुतं स्वेदसंवर्जितं स्फारगन्धं स्वभावा-- सुरूपं महानंदरूपं समुत्फुल्लराजीव-राजी-विराजत्परामोद-सब्रह्मचारि-स्फुरत्श्वासमत्युत्तमामोद-गोक्षीरधारा-- सामांसरक्तं जगल्लोचनाऽगोचराहारनीहार-कार्य-क्रिया-- पूर्णकुम्भं शरीरं धरन्तं धरायां सुसम्पत्परायां महानन्दसंसिद्धये, अतिशयविभवान्वितं घातिकर्मक्षयाद्दीप्यमानं स्फुटं तेजसा भूयसा केवलज्ञानरूपेण सर्वार्थसार्थ -प्रकाशस्वरूपेण लोकत्रयानन्दकंदायिते धर्मसद्मन्यनेक--प्रकार-- स्वधामोजि-तिर्यग- मनुष्याऽसुराणां भृशं कोटिकोटिप्रमाणां, स्थिति-स्थापके योजनस्यैक-मात्रेऽपि सर्वासुमद्बोधमुत्पादयन्तं सदुक्या शुभं, त्रिभुवन-पतिपाद--विन्यासपुण्ये विहार-क्षमा-मण्डले मजुले योजनानां शते साधिके साधिकान् गुलमछदि-प्रछर्दि-प्रभृत्योल्लसद्राजयक्ष्मारूपा नतिपामाऽतिसाराऽर्श- मृ.-प्रमेह-प्रतिश्यायशोकोपतापान
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org