SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ स्तुति तरंगिणी स्काराकारं विश्वाधारं पद्मागारं सर्वज्ञ, श्री वामेयं प्रज्ञामेयं विद्वद्गेयं स्तोष्ये तम् ॥ १ ॥ देवत्रीभिर्येषां सच्चात्सुष्ठु स्वान्तं नाक्षोभि गाङ्गेयाद्रिवतैर्गुञ्जद्भिर्भूकम्पं कुर्वद्भिः । भक्तानां जन्तूनां यत्पादा गीर्वाणदुष्प्रापा अर्हन्तस्ते संस्तुत्या यच्छन्तु द्राग् वः कैवल्यम् ||२|| अर्हदुवक्त्रोद्भूतं विख्यातं शोभावन्तं कान्तं अत्यन्तं भास्वन्तं बह्वर्थोपेतं मोक्षोपान्तं सर्वाशानामन्तं कुर्वन्तं सान्तत्वान्तं तान्तं सदृदृष्टान्तं ध्वस्तैकान्तं श्री सिद्धान्तं वन्देऽहम् ||३|| कल्याणाली कुर्वाणा पाणौ सत्पद्मं विभ्राणा दुःखौधं छिन्दन्तीं भव्यानां दारिद्रयं भिन्दन्तीम् । पार्श्वे पार्श्वस्था पद्मावत्याऽऽभान्ती कान्त्या सद्भिर्वन्द्या दद्यादेवी सिद्धि वृद्धिं बुद्धि मे ||४|| (३) ( शार्दुलविक्रीडितम् ) भव्याम्भोजनभो - मणिर्गजगतिर्ज्ञानादिरत्नाकरः, वामाङ्गजोsवामदः, सेव्योऽशर्म-समूह-संक्षय करो सुश्लाध्योऽभयदोऽमदो विभवदो वन्द्यो हि पार्श्वेश्वरः, श्रीमत्पार्श्वपतिर्दधातु भविनां शं पूजितः स्रर्गिभिः ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy