________________
श्रीजिनभत्त्यष्टकम्
भक्तिः श्रीजिनराजस्य, स्वर्गमुक्तिप्रदायिनी। अनन्तपुण्यतो लम्या, भवस्थितिविनाशिनी ॥ १ ॥ संयमस्य मतं मूलं, दर्शनस्य तथैव च । ज्ञानस्य मूलमषेत्र, सा भक्तिः किं न शस्यते ॥२॥ जैनीभक्तिर्जिनेन्द्रस्य, पदप्राप्तिपरायणा । अनन्ता भक्तितो जाता, जन्तवः श्रीजिना भुवि ॥३॥ पुष्पाद्यर्चा तदाज्ञायाः, पालनं तत्स्वरक्षणम् । उत्सवास्तीर्थयात्रा च, भक्तिः पञ्चविधा जिने ॥४॥ जिनं कतुं जिनः शक्तः, जिनत्वगुणधारकः । निर्धनो न कचित् कश्चिदीश्वरं कर्तुमीश्वरः ॥५॥ श्रेणिकः श्रीजिनो भावी, जिनेन्द्रभक्तिभावतः ।। पद्मनाभेति नाना च, श्रीजिनो जयताद्धवि ॥६॥ . रागद्वेषजयाजातो, जिन: सामान्य केवली । तस्याधिकारो नैवात्र, तीर्थपोऽत्र जिनोऽस्ति वै ॥७॥ जिनं जिनं भजे नित्यं, भवितुं भवपारगः
अन्यांश्च पारगान् कृत्वा, शासने रक्तमानसः ॥८॥ पू० आचार्य भगवंत श्रीमद्विजयलब्धिसूरीश्वरजी
महाराज. १. वि. सं. २०१५ नी पोतानी नित्यनों पोथीमाथी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org