________________
चतुर्विशतितमतरङ्गः। श्रीशत्रुञ्जयादितीर्थस्तुतयः।
श्रीशत्रुञ्जयस्तुतयः ।
+१ (द्रुतविलम्बितम्) विमलशैलविशालमतङ्गज-प्रवरमूनिपुरन्दरसन्निभः । 'विजयते प्रथमो जिनपुङ्गवो, नरसुरासुरनाथनमस्कृतः ॥१॥ * इषुमितमुनिकोटया संयुतः पुण्डरीकः, प्रथम जिनगणेशो यत्र मुक्ति प्रपन्नः । सकल जिनवरायं तीर्थराज स्तुवन्ति, स भवतु मम नित्यं श्रेयसे पुण्डराद्रिः
॥२॥ xसिद्धाचले मुनिगणा अपुनर्भवत्वं, प्राप्ता पदं जननमृत्युविनाशि यत्र । जैनागमेषु विदितोऽस्ति महाप्रभावः, तस्यैव तीर्थनृपतेः कथितो
- जिनेन्द्रः ॥३॥ शत्रुक्षयं प्रणमतां वरदानदक्षा, चक्रेश्वरीकवडगोमुखयक्षमुख्याः । सर्वार्थसिद्धिकरणोदयहर्षयुक्ता,कुर्वन्तु सकुशलं जिनधर्मरक्ताः ॥४॥
___ +२ (द्रुतविलम्बितम् ) विमलशैलविशालविभूषणं, प्रथमतीर्थपतिं गतदूषणम् । प्रणत पञ्जजना(?)ऽमरनायका,निखिलविघ्नविनाशविनायकाः ॥१॥ जिनवरा गुणवृन्दकलालया- ऽप्रतिमतां दधतः कमलालयः । विदधतां दुरितव्रजनाशनं , नरकदुष्टगताव्रजनाशनम् ॥२॥
1 विजयताम् । * मालिनी । 2 पुण्डरीकः । वसन्ततिलका । 3 जिनवरा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org