________________
४९२
स्तुतितरङ्गिणी : अष्टमस्तरङ्गः
नमदखिलसुरेन्द्राः, पापपङ्के दिनेन्द्राः, कुमतमृगमृगेन्द्राः, कर्मवृक्षे गजेन्द्राः । सुगुणमणिसमुद्राः, साधुचकोरचन्द्राः, गतघनतरतन्द्राः, पातु वः श्रीजिनेन्द्राः ॥२॥ जिनवदनहदान्तात्, निर्गता वार्धिकान्ता, सुपदसलिलपूता, पापपकौघहीं । जननमरणनित्या, द्वादशाङ्गी विचित्रा, मुनिजनहितकी, मोक्षसौख्यप्रदार्जी जितनयनकुरङ्गी, श्यामवेणीभुजङ्गी, जिनमुखकजभृङ्गी, श्वेतवस्त्रैर्वृताङ्गी। निविडजडिमरोग-ध्वंसने मातुलिङ्गी, श्रुतनिचयवराङ्गी, देहि मे देवी सद्गीः ।। ४ ।।
६ ( भुजङ्गप्रयातवृत्तम् ) मुदान्निद्रयोगीन्द्रहृद्ध्यायमानं, परिध्वस्तमानं सुरैर्गीयमानम् । लसन्मानवामानवामानमानं, भजे वर्द्धमानं भजे वर्द्धमानम् ॥१॥ जिनाधीशलेखा नताशेषलेखा, नतद्वेषदोषप्रदोषांशुलेखा। स्मृता येन तं निःप्रतीपं प्रतीत्य, कलं कोमलं कोमलं कोऽप्यलं स्यात् ।।२।। महावीरवाणीगुणो वर्णः वण्यः, सकर्णेन नाकर्णितो येन तूर्णम् । स. धूर्णन्महामायया मन्यतेऽसा-रसंसारसंसारसंसारसारम् ॥३॥ सुधर्मासुराणामधीशः शचीनां, शुचिप्रेमनर्मादि सौख्यं विहाय । जिनाधीशसेवाविधौ यः प्रसक्तः, सुदेवः सुदेवः सुदेवः सदैव ॥४॥
१ उत्पादव्ययध्रुवरूपा इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org