________________
श्री वर्धमान जिनस्तुतयः
अथ श्रीवर्धमानजिनस्तुतयः ।
96 १ ( शार्दूलविक्रीडितवृत्तम् ) पद्माऽऽस्ये शतपत्रपत्रनयने कुम्भीनकुम्भस्तने, रम्भास्तम्भनिभोरुचारुचरणे सन्नाकनारीजने । लास्यं यस्य कलाकलापकुशले कुर्वत्यपि ध्यानतश्वेले नाऽचलनिश्चलेन मनसा जीयात्स वीरो जिनः ॥ १ ॥ जन्मस्नानविधौ विधूततमसा येषामशेषं जगत्, जातं जातमहोदयं दितिसुताऽऽरातीसिलोकोपमम् ।
नम्राखण्डलमण्डलामलगलत्सन्मौलिमालावली, गाढालीढसरोज चारुचरणास्ते पान्तु वस्तीर्थपाः
१
व्रजति भवसमुद्रं द्राक् विलंघ्यातिरौद्रं, शिवपदमनवद्यं विश्वविश्वेन वन्द्यम् । विलसद तुलसत्त्वोऽयं भजन् भव्यसत्त्वो, दिशतु स शिवशर्म प्राणीनां जैनधर्मः यस्या भाति करे विकासिकमलं वृन्दैरलीनां वृतं, सद्युक्तिप्रभवादिवादिविभवाद् धामत्वमुच्चैर्गतम् । सा देवी विकचारविन्द विलसत् नेत्रा त्रिलोकैः स्तुता, हस्तन्यस्त सुपुस्तकाऽस्तु भवतां विध्वस्तमोहा सदा
२ ( उपजातिवृत्तम् )
नञेन्द्रमौलिप्रपतत्पराग-पुञ्जस्फुरत्कर्बुरितक्रमाब्जम् । वीरं भजे निर्जितमोहवीरं, संसारदावानलदाहनीरम्
१ मालिनीछन्दः ।
Jain Education International
४८९
For Private & Personal Use Only
॥ २ ॥
॥ ३ ॥
11 8 11
॥ १ ॥
www.jainelibrary.org