SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ श्रीशङ्केश्वरपार्श्वजिनस्तुती ४८७ अथ कंसारीपुरमण्डनश्रीपार्श्वजिनस्तुतिः। सकलजिनराजकोटीरहीराङ्कुरं, पार्श्वपरमेश्वरं समयकमलाकरम् । स्मरत कंसारिपुररत्नतिलोकोत्तरम् विजयलक्ष्मीवरं नीलरुचिसुन्दरम्।।१।। अथ श्रीशङ्केश्वरपार्श्वजिनस्तुती । १ ( द्रुतविलम्बितवृतम् ) मदमहीधरदारणसत्पविं, मदनमत्तमतङ्गजसत्सृणिम् । रुचिरशङ्कपुरी भुवि नायकं, जिनवरं प्रणवीमि सुखप्रदम् ॥१॥ विमतिकर्दमशोषणभास्कराः, विविधविज्ञवितानसुसेविताः । कठीनकर्ममहीरुहसिन्धुराः, जिनवरा विभवाय भवन्तु मे ॥ २ ॥ जिनवरैर्गदितं सुजिनाऽऽगमं, विपुलभङ्गसुसङ्गसमन्वितम् । विविधजीवदयारसबन्धुरं, सकललोकहितं प्रणम्याम्यहम् ॥ ३ ॥ प्रभुपदाऽम्बुजभृङ्गसमोपमो, निखिलविघ्नविघातनसोद्यमः।। प्रवरशङ्खपुरीस्थजिनानुगः, स मम पार्श्वसुरोऽस्तु सुखप्रदः ॥४॥ २ ( शार्दूलविक्रीडितवृत्तम् ) * श्रीशङ्केश्वरमण्डनं जिनवरं पाव स्तुवे कामदं, श्रीमन्तोऽन्यजिनेश्वरा जगति ये तान्नौम्यहं सर्वदा । निःश्रेयाऽऽस्पददायकं नतसुरं वन्दे तथा चाऽऽगम, श्रीपद्मावतीदेवते ! भव सदैवाऽमेधशिष्ये शुभा ॥१॥ * इयं स्तुतिः चतुर्शः उच्यते । १ पू. आ. श्री विजयसेनसूरीश्वरजी म. शिष्य कमलविजयेन कृता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy