________________
४८६
स्तुतितरङ्गिणी : अष्टमस्तरङ्ग
९ ( शार्दूलविक्रीडितवृत्तम् ) *कल्याणानि समुल्लसन्ति जगतां दारिद्रयविद्रावणद्राघीयः पदवीप्रवर्ह घटनाकल्याणकल्पद्रुमात् । कल्याणप्रगुणी भवत् प्रवचनश्रीसिद्धसारस्वतश्रीमत्पार्श्वजिनेश्वरस्मरणतः कल्याणमाहात्म्यतः ॥१॥
+१० ( उपजातिवृत्तम् ) श्रीपार्श्वनाथा! ऽऽगम ! वीतराग-चया!ऽभिवन्द्याऽऽनतनाकिनाग!। समस्तभद्रोदयपारिजात !, जय क्षितौ त्वं दितवैरिजात ! ।। १ ॥
+ ११ ( उपजातिवृत्तम् ) अघौघवल्लिच्छिदिशातपार्श्व !, सम्पादितानन्दपदैकपार्श्व !। श्रीपार्श्व! चञ्चत्समय ! स्वयम्भो !, सर्वज्ञजात स्तुत ! शं विधेहि ॥१॥
___ + १२ ( अत्युक्ताजातौ स्त्रीछन्दः ) कुर्यात् पार्श्वः पापध्वंसम् ॥१॥ सर्वे सार्वाः सिद्धिं दधुः ॥२॥ अद्वाचं वन्देऽजस्रम् ॥ ३ ॥ स्फूर्जत्सद्मा जीयात् पद्मा ॥४॥
* इयं स्तुतिः चर्तुशः उच्यते ।
१ प्रथमस्तुतौ हे श्रीपार्श्व ! त्वं जय । द्वितीयायां हे वितरागचय ! त्वं जय । तृतीयायां हे नाथाऽऽगम ! त्वं जय। चतुझं हे आनतनाकिनाग ! त्वं जय।
२ प्रथमस्तुतौ हे श्रीपार्श्व! शं विधेहि। द्वितीयायां हे सर्वज्ञजात ! शं विधेहि । तृतीयायां हे चञ्चत्समय ! शं विधेहि । चतुझं हे श्रीपार्श्वनामायक्ष ! शं विधेहि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org