SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वजिनस्तुतयः ४८५ स्वपक्षद्वयीराजमानैर्मनोऽभीष्टसृष्टिपरिष्टं श्रयेऽहं फलैः पूरितं विश्वविश्रामभूमि मरुन्मण्डलीरक्ष्यमाणम् ॥ ३ ॥ चलत्कुण्डलामण्डिता खण्डितानेकशत्रुप्रचारा विचाराञ्चितागण्यलावण्यपूरप्रवाहैन वा हेमसौदर्यवर्यस्वदेहप्रभाभिः शुभाभिः प्रभावैः प्रभूतैर्विभूतिप्रदैः प्रीणयन्ती मुनीनां समाज समाजन्यमानाश्रितश्रेणिरक्षा कलौ कल्पवृक्षा, स्फुरव्यक्तमुक्ताफलोदारहारश्रिया सङ्गता चङ्गतारुण्यपुण्यालया लीलया सञ्चरन्ती चरन्ती द्विषां प्रौढिरूढानुभावं विभावन्नताशेषगीर्वाणवर्णा सुवर्णाचलौपम्यभृधैर्यसौन्दर्यगाम्भीयतेजोभरैः सुन्दरैर्निभरं संश्रयन्ती महत्त्वम् । ___ क्वणनूपुरालङ्कृता न्यक्कृतारातिजाताऽभूता नागिनीराजिसम्पूजिता तर्जितापारविघ्नप्रकारा महामत्तमातङ्गरङ्गद्गतिप्राअला विश्वविख्यातकीर्त्या शशाङ्कं जयन्ती जगद् रञ्जयन्ती भयं भञ्जयन्ती कुतीर्थप्रभूणां परेषां समेषां, मम श्रीनिवासा नगाधीशपत्नी घटाकोटिसाम्राज्यलक्ष्मी श्रयन्ती नयन्ती सदैवोन्नति शासनं पार्श्वनाथस्य देवाधिदेवस्य नित्यं मनश्चिन्तितं सत्वरं देवतामुख्यपद्मावती स्वामिनी विश्वमाता ददातु त्रिलोकोत्तमं पुण्यकारुण्यपण्यार्पणाभा ।। ४ ।। ___८ ( अत्युक्ताजातौ स्त्रीछन्दः ) पार्श्वः प्रभुः जियान्नित्यम् ॥१॥ सार्वः सङ्गः दद्याच्छं मे ॥२॥ अर्हद्वाक्यं सिद्धिं दद्यात् ॥३॥ भद्रं नित्यं देयात् पद्मा ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy