________________
स्तुतितरङ्गिणी : अष्टमस्तरङ्ग
दुःसञ्चरं सञ्चरन्मत्सर(तुच्छ मत्स्यैर्भयोद् भूतिकृद्दर्शनं सत्वरं भव्यजीवा न के के तरन्ति प्रमोदात् समग्राः ? |
४८४
यदीयं पदाम्भोजमासाद्य पोतोपमानं लसन्नव्यनानागुणश्रेणिमाणिक्यमालाभिरालिङ्गितं सङ्गतं विश्वशस्यश्रिया संश्रितं सर्वदा बुद्धिवृद्धैः समृद्धैः प्रबुद्धैर्विशुद्धार्थसार्थप्रदं देवताऽधिष्ठितं सत्कृतं लक्षणानां समाजैः प्रक्लृप्तोत्सवायै:,
मम श्रीजिनेन्द्राः सुरेन्द्रावलीनम्यमाना अमाना महोभिर्महद्भिर्जनानन्ददानप्रवीणैर्नवीनैर्जगञ्जन्तु सन्तापविध्वंसकृद्वाग्विलासा निवासाः स्फुरच्छर्मलक्ष्म्या अभङ्गोत्तमानन्तसद्भाग्यसम्भारलभ्याः सृजन्तु प्रकामं मनोवाञ्छितं ते समग्रम् ॥ २ ॥
अनेकान्तसद्वादमूलं जगन्नाथ दत्तत्रिपद्येक बीजं गणाधारमुख्यैः कलालब्धलक्षैरिवारामिकै रोपितं सर्वसम्पत्तिजाताभिलाषोद्यतिर्निस्तुषादूष्यवैदूष्यशिष्यव्रजक्षोणिपीठे प्रकृष्टोत्तमानन्तसदभक्तिपूरैः सदार्द्रश्रियं श्रीयमाणे,
स्फुटानित्यनित्यादिवादस्थलैः प्रत्यलैस्तार्किक श्रेणिसंशीतिदाघौघविच्छेदलीलाविधौ वेदसंख्यैः ककुन्मण्डलव्यापकैः प्रौढशाखाकुलैः शोभमानं समानन्दितानेकलोकं निजच्छायया स्वच्छया संहरन्तं दुरन्तं ततव्यापतापप्रचारं प्रभूतम् ।
अनन्तागमासङ्ख्यपर्यायवर्यप्रसर्पल्लसत्पल्लवैः प्रीणयन्तं सकर्णव्रजै स्तूर्णमावर्ण्यमानैरमानैर्बुधाधीश नेत्राणि सच्चित्रकृद् व्यक्तिभृद्युक्तिभृयुक्तिसंयुक्तवाक्यावलीपत्रराजी पवित्रप्रभं निवृत्तेः कारणं वारणं व्यापदां सन्ततेः सर्वकालं,
जिनेन्द्रागमं सङ्गमं शुद्धसिद्धेः सुपर्वद्रुमं न्यायपुष्पावली - सङ्कुलं मञ्जुलं भङ्गजालप्रतानैः सदा सर्वतः सेव्यमानं मुनीशैः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org