________________
४८२
स्तुतितरङ्गिणी : अष्टमस्तरङ्गः
जिनेश्वराणां निकर ! क्षमायां, नरेन्द्र देवेन्द्रनतांहिषद्म ! । कुरुष्व निर्वाणसुखं क्षमाभृत् !, सत्केवलज्ञानरमां दधान ! ॥ २ ॥ कैवल्यवामाहृदयैकहार!, क्षमासरस्वद्रजनीशतुल्य ! । सर्वज्ञ ! सर्वातिशयप्रधान!, तनोतु ते वाग् जिनराज ! सौख्यम् ।।३।। श्रीपार्श्वनाथक्रमणाऽम्बुजात-सारङ्गतुल्यः कलधौतकान्तिः । श्रीयक्षराजो गरुडाभिधानः, चिरं जय ज्ञानकलानिधान ! ॥४॥
श्रीसर्वज्ञं ज्योतीरूपं विश्वाधीशं देवेन्द्र, काम्याकारं लीलागारं साध्वाचारं श्रीतारम् । ज्ञानोदारं विद्यासारं कीर्तिस्फारं श्रीकारं, गीर्वाणवन्द्यं सानन्दं भक्त्या वन्दे श्रीपार्श्वम् ॥ १ ॥ जाग्रहीपे जम्बूद्वीपे स्वर्णशैले श्रीशृङ्गे, चश्चच्चक्रे ज्योतिश्चक्रे तुङ्गत्वाढये वैताढथे । श्रेयस्कारे वक्षस्कारे देवावासे सोल्लासे, ये वर्तन्ते सार्वाऽधीशास्ते सौख्यं वो देयासुः ॥ २ ॥ सम्यग्ज्ञानं शुद्धध्यानं श्रुत्वा ध्यानं सन्मानं, त्रैलोक्यश्रीरामारम्यं विद्वद्गम्यं प्रागम्यम् । अर्हद्वक्त्राम्भोजोद्भूतं शाश्वत्पूतं सङ्गीतं, लक्ष्मीकान्तं वर्णोपेतं वन्दे व्यक्तं सिद्धान्तम् ॥ ३ ॥ भव्यानां भक्तानां कल्याणं कुर्वाणा बिभ्राणा, शीर्षे शोण्डीरं कोटीरं तारं हारं वक्षोजे । विख्याता भोगीन्द्रोपेता सालङ्कारा प्रह्लादं, यच्छन्ती पद्मादेवी सद्बुद्धिं वृद्धिं वैदुष्यम् ! ॥ ४ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org