________________
श्रीपार्श्वजिनस्तुतयः
४८१
कनककुण्डलिनीनलनीसमा, सदमरी भ्रमरी मधुरी कृता । अमल केवलकोमलपद्मभृत् , जय जयारव केसरसाररुग्
॥४॥
४ ( मालिनीछन्दः ) कृतजलघरधारा धोरणीरुद्धदेहो, जयति जयति कायोत्सर्गकाले सपार्श्वः । किमु शमरसमग्नो नूनमाकण्ठमेतां, जनयति जनशङ्कां कान्तिकान्ताङ्गलक्ष्मीः ॥ १ ॥ विरचितहेमां भोजबद्धप्रचारा, विहरणभुवि येषां सूचयन्त्यह्रिपद्माः । विमलकमलजालं निर्जित तेन चास्मान् , महति शिरसि सोऽयं जैनवर्गः पुनातु समवसरणभूमौ यां निशम्यामरेन्द्राः, दधति पुलकजालं चित्तवित्तस्वचित्ताः । उपशमरसधाराऽऽसारधारच्छटाभिः, प्रकटितपुलका किं जैनगी: सा पुनातु ॥ ३ ॥ नमदमरपुरंध्रीभूरिभालाग्रजाग्रन्मृगमदपददम्भात्पादपीठे दधौ या । नतजनपठनाऽवच्छेदिकर्माणि बध्या, विनयिनि मयि सा गीडियजालं छिनन्तु ॥ ४ ॥
५ ( उपजातिवृतम् ) श्रेयःश्रियां मङ्गलकेलिसद्म !, श्रीयुक्तचिन्तामणीपार्श्वनाथ !। दुर्वारसंसारभयाञ्च रक्ष, मोक्षस्य मार्गे वरसार्थवाह ! ॥ १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org