________________
_ + २ ( स्रग्धराछन्दः) भां भां भेरीमृदङ्ग पटु पटु हर दृहहरी कंसनादं, कंसालोत्तारभारारवमुखर वां बद्धकोलाहलं च । यस्याने चाऽऽसमन्तात्फणपतिपतितो वादितं सप्रमोदं, स श्रीमान्पार्श्वनाथः परमसुखमुदं भास्वतं वः प्रदेयम् ॥१। पापारिसारिपाया पमपमगरिसा सारिपापाधिमासा, गागापापामुरारैः समहिममुनिरे नीतिखाखाधिनीते । इत्येवं जन्मकाले गिरपतिशिखरे वीणया गीतमित्रैः, येषामग्रे प्रमोदात् प्रविदधति सुखं शाश्वतं ते जिनेन्द्राः ॥२॥ वेणावेणीप्रणेद्रैः मधूरवरवं भूरि भास्वत् मृदङ्ग, पर्यस्तु ध्वस्तकान्तं स्तनतटशुभगं कंसिकोत्तालभारम् । वर्तन्तिभिः सलिलं प्रबलबलबशाद् भूतधामागुलिभिः, गीर्वन्दे वागभाभिर्यदमलमुरतातज्जिनानां गतं वः ॥३॥ द्रग्भाद्रिद्भान्द्रिद्रग्भां करमतकरताद्रद्रदोषां ददोषः, रिन्दां रिन्दां द्रिदुर्गा गुडुगुडुगुडुदां द्रःकटैद्राकटैद्रः । एवं वादिननादैर्बधिरयति मुदा कानिलैः लावकाशाः, ये यक्षाः स्नात्रकाले विविधपतिपते आहेत: पात सौवम् ॥४॥
___+३ ( द्रुतविलम्बितवृत्तम् ) सकलमङ्गलकेलिनिकेतनं, जिनवरं नवरङ्गधरं परम् । नुतिपथं गमयाम्यमयामितं, भुजगकुण्डलिनिपरिसेवितम् ॥१॥ विपुलकेवलकेलिविभासितं, श्रवणमङ्गलकुण्डलतां वहत् । सुभगपारगमण्डलमुत्तमं, गुणमणिरमणीयमलं शुभेत् ॥२॥ रसमयः समयः समयः सतां, सरससिद्धरसोपमसङ्गमः । जिनमतो वटपाटवमुत्कटं, वहति वर्णसुवर्णगुणालयः ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org