SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ श्रीने मजिनस्तुतयः मदनमानजरा निधनोज्झिता, जिनपते ! तव वागमृतोपमा । भवभृतां भवताच्छिवशर्मणे, भवपयोधिपतज्जनतारका जिनपपादपयोरुहहंसिका, दिशतु शासननिर्जरकामिनी । सकलदेहभृताममलं सुखं, मुखविभाभरनिर्जितभाधिपा Jain Education International +२ ( स्रग्धराछन्दः ) राज्यं राजीमतीं च ऋजरज इवोत्सृज्य यो यत्र संस्थः, साम्यश्रीसिद्धसाध्यां विमलसकलसत्केवलालोकलोभ्याम् । लेभे लोकाग्रलभ्यामपि शिवयुवतिं तन्नवोन्नत्यभाजं, श्रीनेमिं नौमि तं चाचलकुलतिलकं रैवतं तत्पवित्रम् पुण्यैः पुण्यानुबन्धैरिव भुवनमनो जन्यमानप्रसादैः, प्रासादैर्वर्द्धमानोदयसुभगतया दूरमभ्रंलिहानैः । ये सन्मार्ग दिशन्ते भवगहनजुषां मोहभाजां जनानां, ते तीर्थशा जयन्तु त्रिभुवनमहिता उज्जयन्ताऽवतंसाः शैलश्रीश्वतोर्व्या समवसृति शिवानन्दनस्याऽऽस्य जन्मा, नव्यां भव्याङ्गिकोटेरिव निजलवतः काञ्चनाभां वितन्वन् । लोकं कल्याणपात्रं रस इव विदधे यो महाभाग्यलभ्यः, श्रीसिद्धान्तः स भूयाद्भुवनभवभृतां दुःखदौर्गत्यभेदी या विप्रा साधुदाना कुपितपतिकृताऽवज्ञया मुक्तगेहा, यान्ति श्री उज्जयन्तेऽनशनविधिभृता तीर्थमाहात्म्ययोगात् । देवत्वं प्राप सद्यस्तदनुकृतरतिस्तत्र तीर्थे कृतज्ञा, श्रीमन्नमीशभक्ता भवतु शिवकृते सङ्घलोकस्य साऽम्बा For Private & Personal Use Only ४७७ ॥ ३ ॥ 11 8 11 ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ 11 8 11 www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy