SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ श्रीशान्तिजिनस्तुतयः ४७३ अथ श्रीशान्तिजिनस्तुतयः । १ ( मालिनीछन्दः ) सकलकुशलवल्ली पुष्करावर्त्तमेघो, मदनसदृशरूप: पूर्णराकेन्दुवक्त्रः । प्रथयतु मृगलक्ष्मा शान्तिनाथो जनानां, प्रसृतभुवनकीर्त्तिः कामितं कम्रकान्तिः ॥ १ ॥ जिनपतिसमुदायो दायकोऽभीप्सितानां, दुरिततिमिरभानुः कल्पवृक्षोपमानः । रचयतु शिवशान्ति प्रातिहार्यश्रियं यो, विकट विषमभूमीजातदतिं बिभर्ति ॥ २ ॥ प्रथयतु भविकानां ज्ञानसम्पत्समूह, समय इह जगत्यामाप्तवक्त्रप्रसूतः । भवजलनिधिपोतः सर्वसम्पत्तिहेतुः, प्रथितघनघटायां सर्पकान्तप्रकारः जयविजयमनीषामन्दिरं ब्रह्मशान्तिः, सुरगिरिसमधीरः पूजितो न्यक्षयक्षैः । हरतु सकलविघ्नं यो जने चिन्त्यमानः, स भवतु सततं वः श्रेयसे शान्तिनाथः ॥ ४ ॥ २ ( हरिणीछन्दः) स जयति सतामीशः शान्तिर्यदजिनतामरः, प्रकटमुकुटोट्टंकी रत्नाङ्कुरप्रकरोरुवत् । ध्वजपृषदनुच्छायः शके यदास्य लघुकृतः, तरुणाकिरणोपेतः कोपान् मृगाङ्कगणोऽरुणः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy