________________
श्री आदिजिनस्तुतयः
३ ( वसन्ततिलकावृत्तम् ) गीर्वाणमौलिक मणिरत्नशिखाकलापचञ्चन्मरीचिनिचयाऽर्चितपादपीठम् । चामीकरद्युतिसमप्रभविश्वनाथं, प्रातः प्रणौमि परमेश्वर नाभिसूतम् क्षीरोदवारिपरिपूर्णमहासुगन्धमत्तभ्रमद्भमरगुञ्जरवाऽभिरामैः । ये स्नापिताः सुरगिरौ मणिरत्नकुम्भैः, शर्जिनाः प्रवितरन्तु हितानि नस्ते स्याद्वादभीमनखचक्रविराजितांऽहिः, सत्साधुकारिमुखपञ्जर मध्यवासी । गर्जन् कुवादिकलिकुञ्जरदर्प भेदी, जैनाऽऽगमो जयतु के सरिवत्प्रभाते दर्पोद्धतद्विरदष्टष्ठमधिष्ठितो यः स्फारस्फुरत् रुचिररत्नकिरीटकोटिः ।
नानामणिप्रकररञ्जितपादपीठः, प्रातस्तनोतु मम शर्म कपर्दियक्षः
॥ १ ॥
Jain Education International
For Private & Personal Use Only
४६९
॥ २ ॥
+ ४ ( अनुष्टुभ् )
युगादिपुरुषेन्द्राय युगादिस्थितिहेतवे । युगादिशुद्धधर्माय, युगादिमुनये नमः ऋषभाद्यावर्द्धमानान्ता, जिनेन्द्रा दश पञ्च च ।
॥ ३ ॥
।। ४ ।।
त्रिकवर्गसमायुक्ता, दिशन्तु परमां गतिम् ॥२॥ जयति जिनोक्तो धर्मः, षडुजीव निकायवत्सलो नित्यम् । चूडामणिरिव लोके, विभाति यः सर्वधर्माणाम् ॥ ३ ॥
॥ १ ॥
www.jainelibrary.org