________________
४६२
स्तुतितरङ्गिणी : सप्तमस्तरज
दद्यान्मुदं देवयशा हिमानी-हंसाऽऽवलिश्वेतयशा हि मानी। कैवल्यलक्ष्मीसदनं तरङ्ग-रङ्गद्गुणाऽऽलीसद-नन्तरङ्गः ॥१९ ।। यं पाददीप्त्या सुरराज राजी-वाऽऽस्यं नमन्ती सुरराजराजी। तन्यान्मतं मेऽजितवीर्यपार-गतः स दक्षाऽगतवीर्यवारः ॥ २० ॥ श्रेयस्करः श्रीऋषभः सदा नः, सोऽस्तु क्षमाधूर्वृषभः सदानः । जवेन कर्ता नमदगिराय-च्छिनत्ति पीयूषमदं गिरा यः ॥ २१ । गङ्गेव तापं जनतासु गौराऽऽ-च्छिनत्ति यस्याऽवनतासु गौरा । चन्द्राननोऽसौ धृतिलो ममाऽल-मस्तु श्रियेऽस्तप्रतिलोममालः ॥२२॥ श्रीवारिषेणं तरसा पराऽगं, भव्यव्रजत्राणरसाऽपरागम् । नमामि कीर्त्यस्तहरं नदीनं, गाम्भीर्यतो मोहहरं नदीनम् ॥ २३ ॥ श्रीवर्धमाने-शमलोभवन्तं, यः स्तौति भक्त्या विमलो भवन्तम् । सङ्गं शिवश्रीस्तरसा न तस्य, चिकीर्षते सा न रसानतस्य ॥२४ ।। रति जिना मे सकलाः क्रियासु, शस्यासु शश्वत्सकलाः क्रियासुः । दिवाकराऽमानतनुप्रभा वाः-पवित्रवाक्या अतनुप्रभावाः ॥ २५ ।। कृतं यतीनां गुरुणा कृतान्तं, भवस्य नो नोम्युरुणा कृताऽन्तम् । कुवादिवीथीविपदाऽऽधिरो-हं, प्रजाभवत्सिद्धिपदाऽधिरोहम् ॥ २६ ॥ प्रह्वाशया शासनभासनायाऽ-हतां यशःपूर्णनभाः सनाया । गीर्देवताऽऽढ्या प्रवरक्षणेन, धिनोतु वः शात्रवरक्षणेन ॥ २७ ॥
१ प्रान्तपद्यत्रयेण साकं भण्यते तदा श्रीसीमन्धरादि जिनस्तुतयो भवन्ति। २ तीर्थकृता। ३ सिद्धान्तम्। ४ प्रीणातु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org