________________
अज्ञातकर्तृ-सीमन्धरादि जिनस्तुतयः
सूरप्रभाधीश्वर ! मा मुदाऽऽरा-नतं ददच्छैवरमामुदाराम् । रक्षाऽक्षयज्ञान ! तमोहरा!ऽऽगः, सारङ्गसिंहो गतमोह!ऽऽरागः ॥ ९॥ विशाल! तायिन् ! सनय ! स्वराऽम-भेदिन ! प्रबोधं जनयस्व राम !। स्थैर्याऽस्तभूभृद्वरमेरुजन्तु-हितस्तमोजां हर मे रुजं तु ॥१०॥ आज्ञा घरां मूर्ध्नि बहेम धाम-नीराग ! यत्ते नवहेमधामन् । मानद्विपे वज्रधरा!ऽङ्गजाऽरे-!ऽव श्रिताच्चित्तधरां गजारे! ॥ ११ ।। भव्याऽस्तलोभाशममानमार !, चन्द्रानना!ऽर्हन्तममानमार!। श्रये जिनाधीश ! सुधामनोज्ञ-वाचं भवन्तं वसुधामनोज्ञ ! ।। १२ ।। दूरीचरीकति नमःसमूह, यद्वाक्चयो वर्यतमः समूहः । श्रीवज्रबाहोः कमलाऽऽशयस्य, तस्य क्रमौ नौम्यमलाऽऽशयस्य ।।१३।। भुजङ्गभर्तः ! भवतोयदस्य, भिागवायो ! भवतोऽयदस्य । वचश्चयः श्रीजिनराज! पाता-न्मां दुर्गतेनम्रनरा!ऽज!पातात् ।।१४।। व्रतं दधौ यः शुभरं विहास्सदर्चितो भोगभर विहाय । तमीश्वरं तीर्थकरं नु वाम-पञ्चषुपङ्कोष्णकरं नुवामः ॥१५॥ नमन्नराऽमत्यसभाजनाय, माध्यस्थ्यच्चद्रसभाजनाय । नेमिप्रभाधीश्वर ! तेऽस्तु तार, नमो बुधैर्धर्मरते! स्तुताऽरम् ॥ १६॥ श्रीवीरसेनं जितमोहसेनं, मुक्तं सदा मानतमोहसेन । स्तुवन्नरः स्यादमदं तु दन्त-पंक्त्या सुखी पुष्पमदं तुदन्तम् ॥१७॥ मम प्रदेया वृजिनाऽऽधिराज-रवे ! महाभद्र ! जिनाऽधिराज!। भवभ्रमोत्थश्रमहाम-हीन-कीर्ते! मतिं नम्रमहामहीन! ॥ १८ ॥
१ प्रधान !। २ शुभदाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org