________________
स्तुतितरङ्गिणी : सप्तमस्तरका
अञ्चतं जिणसासणंमि निरया सव्वण्णुसेवाकरा,
सव्वे इंतु सुरासुरा भगवओ संघस्स खेमंकरा ॥ २७ ॥
६ ( उपजातिवृत्तम् ) सीमधराऽधीश ! महाविदेह-श्रोणीवतंस ! सुमहा! विदेह !। भवान् भवत्ताविष! वै नतेऽय-श्रीदोऽस्तु मे रुम्विषवैनतेय! ॥१॥ युगन्धर ! त्वं परमां प्रदेहि-काम्यां मम ब्रह्मरमा प्रदेहि । दुरन्तदुष्कर्मभवाऽऽधिकार-स्कराऽऽवली-भो विभवाऽधिकार ! ॥२॥ श्रीवाहुनेतस्तनुतां भवस्य, दुष्कर्मबन्धात्तनुतां भवस्य । भवान्नतस्यासुमतोऽसमान-गुणावले ! सत्सुमतोऽसमान! ॥३। सुबाहुतीर्थेश ! नवाऽरिदाव-नीरर्द्धिवल्लीवनवारिदा!ऽव । भवोदपाने पततो मम त्वं, नुदन्नतालीकृततो ममत्वम् ॥४॥ हे पोत ! संसारमहोदधाव-भितो हि ते सारमहो दघाव । देयाः शिवं वः स सुजात! रूप-स्मरा!ऽङ्गकान्त्यस्तसुजातरूप! ॥५॥ दुःखं जिनेशा!ऽपनयस्व कान्त-युसत्कृतोद्यद्विनय ! स्व-कान्त !। स्वयंप्रभ ! त्वं विनमज्जनानां, कृतक्षमाजीवनमज्जनानाम् ॥६॥ नमोऽस्तु ते श्रीऋषभाननाऽऽय-प्रदाय शाश्वद् वृषभाऽऽननाय । सुरासुरैन्द्रैमहिताय कामं, विनिम्नते विश्वहिताय कामम् ॥७॥ अनन्तवीर्यो वरराजितोय-वर्षे घनः संवरराजितो यः । तनोतु संसृत्युदयाऽसमुद्रः, श्रेयो जिनो वः स दयासमुद्रः ॥८॥
१ जायमानः स्वर्गः यस्मात् । २ वृक्षाऽऽवली। ३°ता-लक्ष्मीः। ४ संसारक्षेपकानां हर्षदः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org