SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ मु. श्रीशान्तिविजयजी म. प्रणीता-स्तुतिचतुर्विंशतिका मध्याह्नाऽम्बररत्नबिम्बकलितं व्योमेव वक्षस्थलं, श्रीवत्साऽङ्कितमध्यभागसुभगं बभ्राज यस्य प्रभोः । येनाऽश्वप्रतिप्रबोधतः स्वकरुणा कीर्त्या मताऽलङ्कृता, देवेशः स ददातु मे जिनपतिः श्रीसुव्रतः सुव्रतम् ॥ २० ॥ रेजे यस्य जगत्रयेऽपि विभुता श्वेताऽऽतपत्रत्रयीं, संसन्तीव सुधादशां मणिभुवां सत्किंकणीनां वणैः । तं सन्मानवनाकिनायकजनैः ननम्यमानं नमि, नित्यं नौमि नमामि नम्रजनता कल्पद्रुमं स्वामिनम् ॥ २१ ।। अत्यन्ताऽद्भुतरूपसम्पदमयां संत्यज्य राजीमतीं, स्फीतप्रीतिमदुग्रसेननृपति राज्यं च यः स्वप्रियाम् । यस्योचैर्ऋतमीयुषः कृतचमत्कारं चरित्रं चिरं, तं सौभाग्यनिधिं नमामि मुदितः श्रीनेमिनाथं जिनम् ॥ २२ ॥ निःसीमाऽतिशयाऽवतंसितगुणप्रादुर्भविष्णु सुतं, साम्राज्यं त्रिजगत्सु यस्य यशसः स्वस्रेणगेया विधिः । निर्विघ्नंघनसम्पदे प्रणयिनां जाग्रत्प्रभावं प्रभु, तं श्रीपार्श्वजिनं नमामि विनमद्देवेन्द्रवन्धक्रमम् ॥ २३ ॥ यत्पादाऽम्बुजपर्युपास्तिषुरतिस्फारैः फलन्ति फलैः, कामं कल्पतरोलतां विजयते स्वर्मोक्षलक्ष्मीकुलैः । तं सिद्धार्थनरेन्द्रवंशविलसल्लावण्यमुक्तामणि, वन्दे बन्धुरवर्द्धमानयशसं श्रीवर्द्धमानं जिनम् ॥२४॥ चक्राणापरमोपकारनिकरं देवाधिदेवायते, ख्याति जग्मुरशेषविश्ववलये ये केवलज्ञानिनः । १ प्रान्तपद्यत्रयेण साकं भण्यते तदा स्तुतिचतुर्विंशतिका भवति । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy