________________
४५०
स्तुतितरङ्गिणी : सप्तमस्तरा
यस्य ध्यानवितानदीपकशिखामासाद्य मोहादयः, सद्योऽपि प्रपतत्यतङ्गतुलया निर्नामनाशं ययुः । यो नम्राऽमरमौलिवन्धचरणः पुण्यप्रपादर्शनैः, नानाकान्तगुणैश्च तं विनमताऽनन्तं जिनं सन्ततम् ॥ १४ ॥ रागद्वेषदुरन्तदीप्रदहनज्वालासु नव्याम्बुदं, माऽमर्त्यनिवर्तिताऽर्तिनिकरं कारुण्यपुण्याऽऽकरम् । आराध्योरद्धधाम यस्य विदधे स्वं सिद्धिवध्या धवं, धर्म वो विदधातु बन्धुरधियां ध्येयः स धर्मो जिनः ॥ १५ । यस्याऽऽस्याऽप्रतिमप्रकामविलसत्सौन्दर्यलक्ष्म्याऽऽशया, स्वं रम्याऽङ्ककमिषादुपायनतया कृत्वा मृगाऽङ्गो मृगम् । लग्नानेकतनुः पदोः सितनखश्रेणिछलेना बभौ, शान्ति शान्तिजिनः सतां स तनुतां चक्रेश्वरः पञ्चमः ॥१६॥ श्रीमत्तीर्थकरत्वचक्रकमलाविस्फूर्जिताऽलङ्कृतं, जन्मोच्चैः सुभगं भविष्णु जगतां वर्ण्य यदीयं मुहुः । वन्देऽत्यर्थमनर्थदावदविघौ पाथोदपाथः पथं, तं तथ्याऽऽवसथं शिवाध्वनिरथं श्रीकुन्थुनाथं जिनम् ॥ १७ ॥ राज्याऽऽडम्बरशक्रसोदरनमष्षट्खण्डभूमण्डलीभूपालाऽऽवलिमौलिमणिभिश्युम्बत्क्रमाऽम्भोरुहम् । राज्यं यः परिहाय चीर्णचरणस्तं जम्मिवांसं शिवं, वन्दे श्रीअरमस्ति दुर्गतिहरं श्रेयस्करं सत्वरम् ॥१८॥ लीलाघातिकघातिकर्मचयतो यं ध्यानत: केवलज्ञानश्रीः परिकमणा मणिमिव ज्योतिछटा शिश्रिये । देवेशं प्रणमामि तं स्वयशसा जिष्णं लसन्मल्लिकामाल्यं मल्लिजिनं जयध्वनिमुखैर्वन्यं सुरेन्द्रैरपि ॥१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org